मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७७, ऋक् ७

संहिता

य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥

पदपाठः

यः । उ॒त्ऽऋचि॑ । य॒ज्ञे । अ॒ध्व॒रे॒ऽस्थाः । म॒रुत्ऽभ्यः॑ । न । मानु॑षः । ददा॑शत् ।
रे॒वत् । सः । वयः॑ । द॒ध॒ते॒ । सु॒ऽवीर॑म् । सः । दे॒वाना॑म् । अपि॑ । गो॒ऽपी॒थे । अ॒स्तु॒ ॥

सायणभाष्यम्

अध्वर्रेष्ठा यागे सीदन्मानुषो यो यजमानो यज्ञ उदृचि सति। ऋक्शब्देन स्तोत्रमुपलक्ष्यते। यज्ञे समाप्तस्तुतिके सति सम्पूर्णे सति मरुद्भ्यो न मरुद्भ्य इवान्येषामध्वर्युभ्य ऋत्विगादिभ्यो ददाशत् दद्यात्। यद्वा। यज्ञ उदृच्युपक्रान्त इत्यर्थः। यस्मिन्यज्ञे मरुद्भ्य इवान्यस्मा इन्द्राय ददाशत् ददाति। स यजमानो रेवद्धनवत्सुवीरं शोभनपुत्राद्युपेतं वयोऽन्नं दधते। धारयति। व्यत्ययेनैकवचनम्। स देवानामिन्द्रादीनामपि गोपीथे सोमपानेऽस्तु। भवतु॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११