मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७७, ऋक् ८

संहिता

ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः ।
ते नो॑ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥

पदपाठः

ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । आ॒दि॒त्येन॑ । नाम्ना॑ । शम्ऽभ॑विष्ठाः ।
ते । नः॒ । अ॒व॒न्तु॒ । र॒थ॒ऽतूः । म॒नी॒षाम् । म॒हः । च॒ । याम॑न् । अ॒ध्व॒रे । च॒का॒नाः ॥

सायणभाष्यम्

ते हि ते खलु यज्ञेशु यागेशु यज्ञियासो यज्ञार्हा यश्टव्या ऊमा आवितार आदित्येन नाम्नादित्यसम्बन्धिनोदकेन शम्भविष्ठाः सुखस्य भावयितारः। यद्वा। आदित्याख्येन नाम्नादित्यनामकेन देवेन सह शम्भविष्ठाः। ते मरुतो नोऽस्मानवन्तु। रथतू रथतुरो रथस्य यज्ञगमनसाधनस्य त्वरयितारः सन्तो मनीषां स्तुतिमवन्तु। रक्षन्तु। कीदृशास्ते। अध्वरे यामन्यागगमने महो महद्धविश्चकानाः कामयमानाः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११