मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७८, ऋक् १

संहिता

विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो॑ देवा॒व्यो॒३॒॑ न य॒ज्ञैः स्वप्न॑सः ।
राजा॑नो॒ न चि॒त्राः सु॑सं॒दृशः॑ क्षिती॒नां न मर्या॑ अरे॒पसः॑ ॥

पदपाठः

विप्रा॑सः । न । मन्म॑ऽभिः । सु॒ऽआ॒ध्यः॑ । दे॒व॒ऽअ॒व्यः॑ । न । य॒ज्ञैः । सु॒ऽअप्न॑सः ।
राजा॑नः । न । चि॒त्राः । सु॒ऽस॒न्दृशः॑ । क्षि॒ती॒नाम् । न । मर्याः॑ । अ॒रे॒पसः॑ ॥

सायणभाष्यम्

विप्रास इत्यष्टर्चम् दशमं सूक्तम्। पञ्चम्याद्यास्तिस्रो द्वितीया चेति चतस्रो जगत्यः। शिष्ताश्चतस्रस्त्रिष्टुभः। पूर्ववदृषिदेवते। तथा चानुक्रान्तम्। विप्रासो द्वितीया पञ्चम्याद्याश्च तिस्रो जगत्य इति। गतो विनियोगः॥

विप्रासो न विप्रा ब्राह्मना इव ते यथा मन्मभिः स्तुतिभिः स्वाध्यः शोभनाध्याना भवन्ति एवं मरुतोऽप्यस्मदीयैर्मन्मभिर्मननीयैः स्तोत्रैः स्वाध्यः सुमनसो भवन्ति। अथव मन्मभिः स्तोत्रैर्युक्ता विप्रासो न मेधाविनः स्तोतार इव स्वाध्यो यज्ञे यजमाने वा सुध्याना इत्यर्थः। तथा यज्ञैर्यागैर्देवाव्यो न देवानां तर्पयितारो ये यजमाना इव स्वप्नसः। अप्न इति कर्मनाम। शोभनकर्माणः। ते यथा कर्मसु व्याप्उता भवन्ति तद्वद्वृश्टिप्रदानादिकर्मसु व्यापृता भवन्ति। राजानो न मूर्धाभिषिक्ताः क्षितिपतय इव चित्राश्चायनीयाः पूजनीयाः। यद्वा चित्राभरणाः। तथा सुसंदृशः सुष्ठु दर्शनीयाः। तथा क्षितीनांनिवासानां स्वामिनो मर्या न मनुष्या इवारेपसोऽपापाः। यथा प्रतिग्रहार्थमन्यत्रागत्वा स्वगृह एवानुतिष्ठन्तो निर्दोषा भवन्ति तादृशा इत्यर्थः। ईदृशाः शोभन्त इत्यर्थः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२