मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७८, ऋक् ३

संहिता

वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो॑ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ ।
वर्म॑ण्वन्तो॒ न यो॒धाः शिमी॑वन्तः पितॄ॒णां न शंसा॑ः सुरा॒तयः॑ ॥

पदपाठः

वाता॑सः । न । ये । धुन॑यः । जि॒ग॒त्नवः॑ । अ॒ग्नी॒नाम् । न । जि॒ह्वाः । वि॒ऽरो॒किणः॑ ।
वर्म॑ण्ऽवन्तः॑ । न । यो॒धाः । शिमी॑ऽवन्तः । पि॒तॄ॒णाम् । न । शंसाः॑ । सु॒ऽरा॒तयः॑ ॥

सायणभाष्यम्

ये मरुतो वातासो न वायव इव धुनयः शत्रूणां कम्पयितारो जिगत्नवो गमनशीलाः। अत्र मारुते सूक्ते मरुतामेव दृष्टान्त कथनं सञ्चरण स्वभाववायुपदार्थतदभिमानिदेवताभेदेनाविरुद्धम् । तथग्नीनां न जिह्वा अग्नीनां ज्वाला इव विरोकिणो विरोचनशीलमुखाः। तथा वर्मण्वन्तो न योधाः कवचिनो योद्धार इव शिमीवन्तः शौर्यकर्मवन्तः। तथा पितॄणाम् न शंसाः पितॄणाम् जनकानां शंसा वाच इव सुरातयः सुदानाः। एवं महानुभावा ते मरुतोऽस्मद्यज्ञमागच्छन्तु॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२