मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७८, ऋक् ६

संहिता

ग्रावा॑णो॒ न सू॒रय॒ः सिन्धु॑मातर आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा॑ ।
शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो॑ महाग्रा॒मो न याम॑न्नु॒त त्वि॒षा ॥

पदपाठः

ग्रावा॑णः । न । सू॒रयः॑ । सिन्धु॑ऽमातरः । आ॒ऽद॒र्दि॒रासः॑ । अद्र॑यः । न । वि॒श्वहा॑ ।
शि॒शूलाः॑ । न । क्री॒ळयः॑ । सु॒ऽमा॒तरः॑ । म॒हा॒ऽग्रा॒मः । न । याम॑न् । उ॒त । त्वि॒षा ॥

सायणभाष्यम्

सूरय उदकस्य प्रेरका ग्रावाणो न मेघा इव सिन्धुमातरो नदीनिर्मातारः। आदर्दिरास आदरणशीलान्यद्रयो न वज्राद्यायुधानीव विश्वहा सर्वदा शत्रूणां हन्तार इत्यर्थः। यद्वा। सर्वदाद्रयो न वज्रा इव शत्रूणामादर्दिरास आदरणशीलाः। सुमातरः शोभनमातृकाः शिशूला न शिशूला न शिशव इव क्रीळयो विहर्तारः। उतापि च महाग्रामो न महाञ्जनसङ्घ इव यामन्यामनि गमने त्विषा दीप्त्य युक्ता भवन्ति। तेऽस्मद्यज्ञमागच्छन्तु॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३