मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७८, ऋक् ७

संहिता

उ॒षसां॒ न के॒तवो॑ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् ।
सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ॥

पदपाठः

उ॒षसा॑म् । न । के॒तवः॑ । अ॒ध्व॒र॒ऽश्रियः॑ । शु॒भ॒म्ऽयवः॑ । न । अ॒ञ्जिऽभिः॑ । वि । अ॒श्वि॒त॒न् ।
सिन्ध॑वः । न । य॒यियः॑ । भ्राज॑त्ऽऋष्टयः । प॒रा॒ऽवतः॑ । न । योज॑नानि । म॒मि॒रे॒ ॥

सायणभाष्यम्

ये मरुत उषसाम् न केवव उषसां रश्मय इवाध्वरश्रियो यज्ञस्याश्रयितारो भवन्ति। तथा शुभंयवो न कल्याणकामा वरा इवांञ्जिभिराभरणैर्व्यश्वितन् दीप्यन्ते। श्विता वर्णे। लङि रूपम्। तथा सिन्धवो न नद्य इव ययियो गमनशीला भ्राजदृष्टयो दीप्यमानायुधाः परावतो न दूरध्वनीना वडवा इव योजनानि दूरदेशान्ममिरे। परिच्छिन्दन्ति। तेऽस्मद्यज्ञमागच्छन्त्विति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३