मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७८, ऋक् ८

संहिता

सु॒भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मान्त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः ।
अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ सन्ति॑ ॥

पदपाठः

सु॒ऽभा॒गान् । नः॒ । दे॒वाः॒ । कृ॒णु॒त॒ । सु॒ऽरत्ना॑न् । अ॒स्मान् । स्तो॒तॄन् । म॒रु॒तः॒ । व॒वृ॒धा॒नाः ।
अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒ । स॒नात् । हि । वः॒ । र॒त्न॒ऽधेया॑नि । सन्ति॑ ॥

सायणभाष्यम्

अनया स्तुतिमुपसंहरति। हे मरुतो देवाः ववृधानाः स्तुत्यावर्धमाना यूयम् स्तोतॄन्नोऽस्मान्सुभागान्सुधनान्कृणुत। कुरुत। तथा सुरत्नाञ्शोभनरत्नान्कृणुत। यद्वा। सुरत्नाञ्शोभनरमणीयस्तोत्रानस्मानिति सम्बन्धनीयम्। किञ्च यूयं सख्यस्य स्तोत्रस्य सखिभूतम् स्तोमधि गात। अधिगच्छत। वो युश्माकं रत्नधेयानि रत्नदानान्यस्मद्विषयाणि सनाद्धि चिरकालादारभ्य खलु सन्ति॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३