अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु ।
नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥
अप॑श्यम् । अ॒स्य॒ । म॒ह॒तः । म॒हि॒ऽत्वम् । अम॑र्त्यस्य । मर्त्या॑सु । वि॒क्षु ।
नाना॑ । हनू॒ इति॑ । विभृ॑ते॒ इति॒ विऽभृ॑ते । सम् । भ॒रे॒ते॒ इति॑ । असि॑न्वती॒ इति॑ । बप्स॑ती॒ इति॑ । भूरि॑ । अ॒त्तः॒ ॥
अपश्यमिति सप्तर्चमेकादह्सम् सूक्तमाग्नेयं त्रैष्टुभम्। सौचीकगुणोऽग्निरृषिर्वैश्वानरगुणो वाथवा सप्तिर्नाम वाजंभरपुत्रः। तथाचानुक्रान्तम्। अपश्यं सप्त सौचीकोऽग्निर्वैश्वानरो वा सप्तिर्वा वाजंभर आग्नेयं त्विति। प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते। सूत्रितं च। अपश्यमस्य महत इति सूक्ते। आ. ४-१३॥ इति॥
अस्याग्नेर्महतो मंहनीयस्य महित्त्वं महत्त्वमपश्यम् । पश्यामि। कीदृशस्यास्य। मर्त्यासु विक्षु मनुष्यरूपासु प्रजासु तासाम् हृदयेऽमर्त्यस्यामरनस्वभावस्य वैश्वानररूपेण वर्तमानस्य। यद्वा। मर्त्यासु विक्ष्वृत्विग्यजमानरूपासु प्रजस्वमर्त्यस्य सर्वदा जागरितस्य। अथ दावाग्निरूपोऽग्निरुच्यते। अस्याग्नेर्हनू शिप्रे नाना विभृते विभिन्ने सं भरेते। सम्भरतो दन्तैः। तथा कृत्वानन्वती असङ्खादन्तौ स्तोतारं बप्सती भक्षयन्तौ भूरि प्रभूतं काष्थमरण्ये वर्तमानमत्तः। भक्षयतः॥१॥