मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७९, ऋक् ३

संहिता

प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः ।
स॒सं न प॒क्वम॑विदच्छु॒चन्तं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अ॒न्तः ॥

पदपाठः

प्र । मा॒तुः । प्र॒ऽत॒रम् । गुह्य॑म् । इ॒च्छन् । कु॒मा॒रः । न । वी॒रुधः॑ । स॒र्प॒त् । उ॒र्वीः ।
स॒मम् । न । प॒क्वम् । अ॒वि॒द॒त् । शु॒चन्त॑म् । रि॒रि॒ह्वांस॑म् । रि॒पः । उ॒पऽस्थे॑ । अ॒न्तरिति॑ ॥

सायणभाष्यम्

अयमग्निर्मातुः पृथिव्याः सम्बन्धिनीरुर्वीर्बह्वीर्वीरुधो लता इच्छन् तथा प्रतरं पृकृष्टतरं गुह्यं गोप्यं तासाम् वीरुधाम् मूलमपीच्छन्कामयमानः प्र सर्पत्। प्रसर्पति। प्रसरति। किमिव। कुमारो न कुर्मार इव। स यथा स्तन्यम् पातुं जानुभ्यां सर्पति तद्वत्। ससं न पक्वं पक्वमन्नमिव शुचन्तं दीप्यमानं नीरसं वृक्षं रिपः पृथिव्याः उपस्थेऽन्तरुत्सङ्गेऽन्तरविदत्। विन्दति। पुनः कीदृशम् । रिरिह्वांसमाकाशमास्वादयन्तम् । यद्वा। मूलैर्मातरं पृथिवीं रिरिह्वांसम्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४