मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७९, ऋक् ४

संहिता

तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति ।
नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे॑ता॒ः स प्रचे॑ताः ॥

पदपाठः

तत् । वा॒म् । ऋ॒तम् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । जाय॑मानः । मा॒तरा॑ । गर्भः॑ । अ॒त्ति॒ ।
न । अ॒हम् । दे॒वस्य॑ । मर्त्यः॑ । चि॒के॒त॒ । अ॒ग्निः । अ॒ङ्ग । विऽचे॑ताः । सः । प्रऽचे॑ताः ॥

सायणभाष्यम्

हे रोदसी द्यावापृथिव्यौ वां युवाम् तदृतं सत्यम् प्रब्रवीमि यदरणीभ्यां जायमान उत्पन्नो गर्भो गर्भस्थानीयोऽग्निर्मातरारणी अत्ति भक्षयति। देवस्य द्योतनादिगुणस्याग्नेर्वर्तनं मर्त्यो मनुष्योऽहं न चिकेत। न जानामि। हे अङ्ग वैश्वानर अग्निररणीभ्यामुत्पन्नो विचेता विविधज्ञानवान् स प्रचेताः प्रकृष्टज्ञानः। अतो न जानामीत्यर्थः। अथवाङ्गेत्यात्मानमेव सम्बोध्यब्रवीमि। अग्निरेव विचेता बहुधा जानाति स प्रचेताः स एव जानाति। स्वमहिमानं नाहं स्तोतुं प्रभवामीत्यर्थः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४