मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७९, ऋक् ६

संहिता

किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् ।
अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥

पदपाठः

किम् । दे॒वेषु॑ । त्यजः॑ । एनः॑ । च॒क॒र्थ॒ । अग्ने॑ । पृ॒च्छामि॑ । नु । त्वाम् । अवि॑द्वान् ।
अक्री॑ळन् । क्रीळ॑न् । हरिः॑ । अत्त॑वे । अ॒दन् । वि । प॒र्व॒ऽशः । च॒क॒र्त॒ । गाम्ऽइ॑व । अ॒सिः ॥

सायणभाष्यम्

हे अग्ने त्वां नु क्षिप्रं देवेषु किं त्यजः क्रोधमेनः पापं च चकर्थ कृतवानसीत्यविद्वानहम् पृच्छामि। खाण्डवं दहन्तमग्निं पृच्छामि। किञ्चाक्रीळन् क्वचिद्देशेऽविहरन् क्रीळन् क्वचिद्देशे विनोदयल्लीलया दहन्ळर्हरितवर्णः सन्नत्तवेऽत्तव्यमदन्नन्नकाष्ठादिकं पर्वशः सन्धौ सन्धौ वि चकर्थ। विविधं करोषि। गामिवासिः गां यथासि स्वधितिः पर्वशश्छिनत्ति तद्वत्॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४