मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७९, ऋक् ७

संहिता

विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् ।
च॒क्ष॒दे मि॒त्रो वसु॑भि॒ः सुजा॑त॒ः समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ॥

पदपाठः

विषू॑चः । अश्वा॑न् । यु॒यु॒जे॒ । व॒ने॒ऽजाः । ऋजी॑तिऽभिः । र॒श॒नाभिः॑ । गृ॒भी॒तान् ।
च॒क्ष॒दे । मि॒त्रः । वसु॑ऽभिः । सुऽजा॑तः । सम् । आ॒नृ॒धे॒ । पर्व॑ऽभिः । व॒वृ॒धा॒नः ॥

सायणभाष्यम्

अयमग्निर्विषूचो विष्वगञ्चनानश्वान्व्याप्तान्महतो वृक्षान्सर्वतो गन्तॄनश्वानेव वा युयुजे युङ्क्ते वनेजा वने प्रवृद्धः सम्पन्नः सन् कीदृशानश्वान्। ऋजीतिभिरृजुगामिनीभी रशनभी रशनास्थानीयाभिर्लताभिर्गृभीतान्परिगृहीतान्वेष्टान्। साक्षादश्वपक्ष ऋजुगतिभिः प्रसिद्धाभी रशनाभिर्गृभीतान्गृहीतन्स्व्वकीयानश्वाञ्शेघ्रदाहाय रथे योजितवानित्यर्थः। ताद्रुशोऽग्निश्चक्षदे चक्षाद शकलीकरोति वसूनि मित्रोऽस्माकं मित्रभूतो वसुभिर्वासकै रश्मिभिः सुजातः सुष्ठु प्रवृद्धः सन्। किञ्च समानृधे सम्यग्वर्धते पर्वभिः काष्ठखण्डैर्वाव्रुधानो वर्धमानः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४