मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८१, ऋक् २

संहिता

किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् ।
यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥

पदपाठः

किम् । स्वि॒त् । आ॒सी॒त् । अ॒धि॒ऽस्थान॑म् । आ॒ऽरम्भ॑णम् । क॒त॒मत् । स्वि॒त् । क॒था । आ॒सी॒त् ।
यतः॑ । भूमि॑म् । ज॒नय॑न् । वि॒श्वऽक॑र्मा । वि । द्याम् । और्णो॑त् । म॒हि॒ना । वि॒श्वऽच॑क्षाः ॥

सायणभाष्यम्

वैश्वदेवस्य पशोर्वपाया अनुवाक्या किं स्विदित्येषा। सूत्रितं च। किं स्विदासीदधिष्ठानं यो नः पिता जनिता। आ. ३-८। इति॥

पूर्वमन्त्रे जगत्प्रलयकाले संहृत्य पश्चात्सिसृक्षायां सर्वं सृष्ट्वा तत्र प्रविष्ट इत्युक्तम्। तत्र तस्य द्वितीयस्याधिष्ठानजगदुपादानकारणाद्यसम्भवात्सृष्टिरनुपपन्नेत्याक्षिपति। लोके हि घटं चिकीर्षुः कुलालो गृहादिकं किञ्चित्स्थानमधिष्ठाय मृद्रूपेणारम्भद्रव्येण चक्रादिरूपैरुपकरणैर्घटं निष्पादयति। तद्वदीस्वरस्य जगदाश्रयद्यावापृथिव्योरुत्पादनवेलायामधिष्ठानं किं स्विदासीत्। किं नामा भूत्। न किञ्चिदित्यर्थः। तथा तयोरारम्भणं कतमस्त्वित्। आरभ्यतेऽनेनेत्यारम्भण मुपादानकारणम्। तदपि कतमद्भवेत्। तदपि नेत्यर्थः। यद्यपि सम्भवेदारम्भणं कथासीत्। कथमभूत्। किं स्वयं सदसद्वा भवेदित्यर्थः। उभयमपि नोपपद्यते। सच्चेत् अद्वैतभङ्गप्रसङ्गः। असच्चॆत् सदात्मकयोर्द्यावापृथिव्योरुपादानानर्हत्वात्। नान्यत्किञ्चन मिषत्। ऐ. आ. २-४-१। इति श्रुतेश्चेत्यभिप्रायः। यतो यस्मादधिष्ठानादारम्भणाच्च विश्वचक्षाः सर्वद्रष्टा विश्वकर्मा परमेश्वरो भूमिं जनयन्वर्तते तथा द्याम् दिवं व्यौर्णोत् व्यवृणोत् सृष्टवान् महिना स्वमहत्त्वेन। किं स्विदासीदिति॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६