मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८१, ऋक् ३

संहिता

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एकः॑ ॥

पदपाठः

वि॒श्वतः॑ऽचक्षुः । उ॒त । वि॒श्वतः॑ऽमुखः । वि॒श्वतः॑ऽबाहुः । उ॒त । वि॒श्वतः॑ऽपात् ।
सम् । बा॒हुऽभ्या॑म् । धम॑ति । सम् । पत॑त्रैः । द्यावा॒भूमी॒ इति॑ । ज॒नय॑न् । दे॒वः । एकः॑ ॥

सायणभाष्यम्

अनया सर्वात्मकत्वेन कुलालादिविलक्षणत्वादधिष्ग्ठानाद्यभावेऽपि स्रष्टुं शक्नोतीत्याह। विश्वतश्चक्षुः सर्वतो व्याप्तचक्षुः। उतापि च विश्वतो मुखः। तथा विश्वतो बाहुः। उतापि च विश्वतस्पात्। स एवं विधः परमेश्वरः स्वस्मिंस्त्रैलोक्यमुत्पादयतीत्यर्थः। कथमिति उच्यते। बाहुभ्यां दिवं सं धमति। धमतिर्गरिकर्मा। सम्यक् प्रेरयति। तथा पतत्रैर्गमनशीलैः पाद्यैः पृथिवीं सं धमतीति। उभयोरेव श्रवणं प्राधान्याभिप्रायम् । एवं द्यावाभूमी जनयन् दिवं च पृथिवीं चोत्पादयन्देवो द्योतमानः स्वयं प्रकाशः परमेश्वरः एकोऽसहाय एव वर्तते॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६