मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८१, ऋक् ४

संहिता

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥

पदपाठः

किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।
मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊं॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥

सायणभाष्यम्

पूर्वस्यामृच्युक्तं ब्रह्मैव भूम्यादिकारणमिति। तदेवानया प्रश्नकथनव्याजेनोच्यते। लोके हि प्रौढं प्रासादं निर्मिमाणः कस्मिंश्चित्प्रौढे वने कञ्चिन्महान्तं वृक्षं भित्त्वा तक्षणादिना स्तम्बादिकं सम्पादयति। इह तु परमेश्वरप्रेरिता जगत्स्रष्टारो यतो यस्माद्वनाद्यं वृक्षमादाय द्यावापृथिवी निष्टतक्षुः तक्षणेन द्यावापृथिव्यौ निष्पादितवन्तः तद्वनं किं स्वित् किं नाम स्यात्। तथा क उ स वृक्ष आस। कस्तादृशो महान्वृक्षोऽभूत्। हे मनीशिणो मनस ईश्वराः तदुभयं मनसा जुज्ञासायुक्तेन पृच्छतेदु। पृच्छतैव। किञ्चेश्वरो भुवनानि धारयन्यत्स्थानमध्यतिष्ठत् तदपि पृच्छत। एतस्य सर्वस्याप्युत्तरं ब्रह्म स वृक्ष आसीदित्यादिकमुत्तरम्॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६