मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८१, ऋक् ५

संहिता

या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥

पदपाठः

या । ते॒ । धामा॑नि । प॒र॒माणि॑ । या । अ॒व॒मा । या । म॒ध्य॒मा । वि॒श्व॒ऽक॒र्म॒न् । उ॒त । इ॒मा ।
शिक्ष॑ । सखि॑ऽभ्यः । ह॒विषि॑ । स्व॒धा॒ऽवः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒न्व॑म् । वृ॒धा॒नः ॥

सायणभाष्यम्

साकमेधेषु वैश्वकर्मण एककपालस्य या ते धामानीत्येषा याज्या। सूत्रितं च। विश्वकर्मन्हविषा वावृहानो याते धामानि परमाणि यावमा। आ. २-१८। इति॥ पूर्वोक्तस्य पशोर्हविष एवैष याज्या। सूत्रितं च। याते धामानि परमाणि यावमा य इमे द्यावापृथिवी जनित्री। आ. ३-८। इति॥

अनया भौवनो विश्वकर्मा जगत्कारनम् विश्वकर्मदेवं स्तौति। हे विश्वकर्मन् या यानि ते तव परमाणि धामानि शरीराणि सन्ति या यानि च मध्यमानि शरीराणि सन्ति उतापि च या यान्यवमावमानि धामानि शरीराणि सन्ति उतापि च तानीमानि सर्वाणि शरीराणि सखिभ्योऽस्मभ्यं यषुं हविषि मयि हविर्भूते सति शक्ष। देहि। हे स्वधावो हविर्लक्षनान्नवन् स्वयमेव त्वं तन्वं स्वकीयं पूर्वोक्तं त्रिविधं शरीरं वृधानो हविषा वर्धमानः सन्। अनेन धामत्रैविध्योपन्यासेनोत्तमभुतानि देवादिशरीराणि मध्यमभूतानि मनुष्यादिशरीराणि निकृष्टभूतानि कृमिकीटादिशरीराणि च परिगृहीतानि। किं बहुना सर्वं जगदुपात्तं भवति। उक्तव्यतिरेकेण निरवयवस्य परमेश्वरस्य विग्रहाभवात् तदैक्शत बहुः स्यां प्रजायेय। छां. उ. ६-२-३। इत्यादिश्रुतिभ्यः परमेश्वरस्यैव देवादिभेदेन बहुभावावगमात्॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६