मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८२, ऋक् १

संहिता

चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने ।
य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥

पदपाठः

चक्षु॑षः । पि॒ता । मन॑सा । हि । धीरः॑ । घृ॒तम् । ए॒ने॒ इति॑ । अ॒ज॒न॒त् । नम्न॑माने॒ इति॑ ।
य॒दा । इत् । अन्ताः॑ । अद॑दृहन्त । पूर्वे॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥

सायणभाष्यम्

चक्षुष इति सप्तर्चं चतुर्दशं सूक्तम्। ऋष्याद्याः पूर्ववत्। चक्षुष इत्यनुक्रान्तम्। गतः सूक्त विनियोगः॥

चक्षुषश्चक्षुरुपलक्षितस्येन्द्रियसङ्घात्मकस्य शरीरस्य पितोत्पादयिता। यद्वा। चक्षुः ख्यापकं तेजः। तस्योत्पादयिता। मनसा न हि मत्समोऽस्ति कश्चिदिति बुद्ध्या हि खलु धीरो धृष्टो विश्वकर्मा प्रथमं घृतमुदकमजनत्। अजनयत्। आपो वा इदमग्रे। तै. सं. ७-१-५-१। अप एव ससर्जादौ। मनु १-८। इत्यादिश्रुतिस्मृती स्याताम् । पश्चादेने द्यावापृथिव्यौ नम्नमाने तस्मिन्नुदक इतस्ततश्चलन्तौ योऽजनयत्। अथ यदेद्यदैवांताः पर्यन्तप्रदेशाः पूर्वे पुराणा द्यावापृथिव्योः सम्बन्धिनोऽददृहन्त दृढा अभवन्। विश्वकर्मणा दृढाः सम्पादिता इत्यर्थः। आदिदनन्तरमेव द्यावापृथिवी द्यावापृथिव्यावप्रथेताम्। यथाकामं प्रथिते अभूताम्॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७