मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८२, ऋक् ४

संहिता

त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑य॒ः पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥

पदपाठः

ते । आ । अ॒य॒ज॒न्त॒ । द्रवि॑णम् । सम् । अ॒स्मै॒ । ऋष॑यः । पूर्वे॑ । ज॒रि॒तारः॑ । न । भू॒ना ।
अ॒सूर्ते॑ । सूर्ते॑ । रज॑सि । नि॒ऽस॒त्ते । ये । भू॒तानि॑ । स॒म्ऽअकृ॑ण्वन् । इ॒मानि॑ ॥

सायणभाष्यम्

ते पूर्व ऋषयोऽस्मै विश्वकर्मणे द्रविणं चरुपुरोडाशादिलक्षणं धनं सं सम्यगायजन्त। सर्वतो यजन्ते। जरितारो न भूना स्तोतारो यथा भूम्ना महता स्तोत्रेण यजन्ति तद्वत्। ये महर्षयोऽसूर्ते सरणवर्जिते सूर्ते सरन सहिते स्थावरजङ्गमात्मके रजसि लोके निषत्ते निषण्णे निश्चलमवस्थित इमानि भूतानि भुवनानि। प्राणिन इत्यर्थः। समकृण्वन् सम्यग्धनादिनापूजयन्। अथवायमर्थः। ये स्थावरजङ्गमात्मके जगति वर्तमानानेतान्प्राणिनस्तेजसा समकृण्वन् ते पूर्व ऋषयो द्रष्टारो रश्मयोऽस्मा आदित्यात्मकाय विश्वकर्मणे द्रविणं तेज अयजन्त॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७