मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८२, ऋक् ५

संहिता

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ ।
कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ॥

पदपाठः

प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । प॒रः । दे॒वेभिः॑ । असु॑रैः । यत् । अस्ति॑ ।
कम् । स्वि॒त् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअप॑श्यन्त । विश्वे॑ ॥

सायणभाष्यम्

यदीश्वरतत्त्वं दिवा परो द्युलोकादपि परस्ताद्वर्तमानम् तथैनास्याः पृथिव्याः परः परस्ताद्वर्तमानं तथा देवेभिर्देवैः परस्ताद्वर्तमानमसुरैः परस्ताद्वर्तमानं च यदस्ति तद्दुहायामवस्थितं कं स्विद्गर्भं गर्भवत्सर्वस्य ग्राहकं तत्त्वमापः प्रथमं दध्रे। धृतवत्यः। यत्र यस्मिन्गर्भे देवा इन्द्रादयो विश्वे सर्वेऽपि समपश्यन्त सङ्गताः परस्परं पश्यन्ति। एवं चानन्नेव कश्चित्तत्त्ववित्प्रश्नं करोति॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७