मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८२, ऋक् ६

संहिता

तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ ।
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥

पदपाठः

तम् । इत् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअग॑च्छन्त । विश्वे॑ ।
अ॒जस्य॑ । नाभौ॑ । अधि॑ । एक॑म् । अर्पि॑तम् । यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः ॥

सायणभाष्यम्

अनया पूर्व मन्त्रोक्तस्य प्रश्नस्योत्तरमभिधीयते। तमित्तमेव विश्वकर्माणम् गर्भं गर्भस्थानीयं प्रथममितरसृष्ठेः पूर्वमापो दध्रे। दृतवत्यः। यत्र गर्भे विश्वे सर्वे देवा इन्द्रादयः समगच्छान्त सङ्गता भवन्ति। तस्याजस्य नाभावधि नाभौ। अधीति सप्तम्यर्थानुवादी। एकमर्पितमित्यंडाभिप्रायीणोक्तम्। अण्डं हि प्राक्सर्गान्नाभिस्थाने तिष्ठति । यस्मिन्नण्डे विश्वानि भुवनानि सर्वाणि भूतजातानि तस्थुः तिष्थन्ति। अथवाजस्य जन्मरहितस्य ब्रह्मणह् स्वसृष्टे जले शयानस्य नाभौ सर्वजगद्बन्धक उदक एकं ब्रह्माण्डमर्पितं स्थापितम्। शिष्तं समानम्। अथास्मिन्नर्थे स्मृतिः। अप एव ससर्जादौ तासु वीर्यमवाकिरत्। तदण्डमभवद्धैमं सूर्यकोटिसमप्रभमिति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७