मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् २

संहिता

सोमे॑नादि॒त्या ब॒लिन॒ः सोमे॑न पृथि॒वी म॒ही ।
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥

पदपाठः

सोमे॑न । आ॒दि॒त्याः । ब॒लिनः॑ । सोमे॑न । पृ॒थि॒वी । म॒ही ।
अथो॒ इति॑ । नक्ष॑त्राणाम् । ए॒षाम् । उ॒पऽस्थे॑ । सोमः॑ । आऽहि॑तः ॥

सायणभाष्यम्

सोमेनादित्या अदितेः पुत्रा इन्द्रादयो बलिनो भवन्ति। ऐन्द्रवायवादिग्रहपरिग्रहादिति भावः। तथा सोमेनाहुत्यात्मनाग्नौ हुतेन पृथिवी भूमिर्मही महती भवति। आहुत्या वृष्टिद्वारेण सस्यादिसम्पत्तेः। अथो अपि चायं सोमो नक्षत्रानामेषाम् । न क्षं त्रायन्त इति सक्षत्रा ग्रहचमसादयः। तेषामेषामुपस्थे सोमो रसात्मक आहितः। यद्वा। सिद्धानामेव सक्षत्राणामुपस्थ उपस्थाने द्युलोके सोम आहितः। तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्। तै. ब्रा. ३-२-१-१। इत्यादिश्रुतेः। देवतारूपसोमपक्षे। सोमेनादित्या देवा बलिनो बलवन्तो भवन्ति तस्यैकैककलास्वादनात्। प्रथमां पिबते वह्निर्दितीयां पिबते रविरित्यादिस्मृतेः। सोमेन पृथिवी मही। अम्रुतसेकेनौषद्याअद्यभिवृद्ध्या पृथिव्या बलवत्त्वम् । चन्द्रस्य नक्षत्राणामुपस्थे स्थितिः प्रसिद्धा॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०