मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३

संहिता

सोमं॑ मन्यते पपि॒वान्यत्स॑म्पिं॒षन्त्योष॑धिम् ।
सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥

पदपाठः

सोम॑म् । म॒न्य॒ते॒ । प॒पि॒ऽवान् । यत् । स॒म्ऽपिं॒षन्ति॑ । ओष॑धिम् ।
सोम॑म् । यम् । ब्र॒ह्माणः॑ । वि॒दुः । न । तस्य॑ । अ॒श्ना॒ति॒ । कः । च॒न ॥

सायणभाष्यम्

सोमं मन्यते। कः। यः पपिवान्। मैथुनकामार्थं चिकित्साद्यर्थं पीतः सोमो येन। यद्यमित्यर्थः। यं सोममोषधिं वल्लीरूपं सम्पिम्षन्ति। सामर्त्याद्रासायनिकाः। न च स साक्षात्सोमः। तर्हि कः। उच्यते। सोमं हि तं मन्यते यं ब्रह्माणः। यद्ब्रह्मशब्दो ब्राह्मणशब्दपर्यायोऽस्ति कुतो नु चरसि ब्रह्मन् तस्मै मा ब्रूया निधिपाय ब्रह्मन्नित्यादि प्रयोगात्। ब्राह्मना इत्यर्थः। ते चर्त्विजो यजमानश्च यागसाधनभूतं संस्कर्तुं विदुः जानन्ति तस्यांशम्। यद्वा। कर्मणि षष्ठी। तं सोमं कश्चन नाश्नाति। कश्चिदप्ययज्वेति शेषः। यज्वैनं भक्षयितुमर्हति नान्य इत्यर्थः। एवमोषधिपक्षे। अथ चन्द्रपक्ष उच्यते। तं सोमं मन्यते पपिवान् पीतवान्यजमानो यद्यमोषधिरूपं सम्पिम्षन्त्यभिषवग्रावभिरध्वर्व्यादयो यजमानश्च। न च स सोमः कस्तर्हि। यम् ब्रह्माणो ब्राह्मणा अभिज्ञा दैवज्ञाविदुः कथयन्ति चन्द्रमसं न तस्याश्नाति कश्चनादेवो देवेभ्योऽन्यो मनुष्यादिः। देवा अग्न्यादयो रश्मयो वा। यज्ञार्हसोमस्यासोमत्वं न निन्दायै अपि त्वितरस्य स्तुत्या इति मन्तव्यम्। अपशवोऽन्ये गो अश्वेभ्य इत्यादिवत्। एवमत्र सोम्या उभयथा योज्याः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०