मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ४

संहिता

आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः ।
ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥

पदपाठः

आ॒च्छत्ऽवि॑धानैः । गु॒पि॒तः । बार्ह॑तैः । सो॒म॒ । र॒क्षि॒तः ।
ग्राव्णा॑म् । इत् । शृ॒ण्वन् । ति॒ष्ठ॒सि॒ । न । ते॒ । अ॒श्ना॒ति॒ । पार्थि॑वः ॥

सायणभाष्यम्

हे सोम अच्छद्विधानैः। अच्छादयन्ति विधानानि येषां विद्यन्ते त आच्छद्विधानाः। तैर्गुपितः। तथा बार्हतैर्गुपितः। स्वानभ्राजाङ्घार्यादिभिः सप्तभिः सोमपालै रक्षितस्त्वम्। एते वा अमुष्मिल्लोके सोममरक्शन्। तै. सं. ६-१-१०-५। इति ब्राह्मणं ग्राव्णामिच्छृण्वन्नभिशवग्राव्णां ध्वनिं शृण्वन्नेव तिष्ठसि। ते त्वां पार्थिवः पार्थिवो जनो नाश्नाति। न हि द्युस्थश्चन्द्ररूपोऽत्रत्यैः पानयोग्यो भवति। चन्द्रमा वै सोमो देवानामन्नं तं पौर्णमास्या यामभिषुण्वन्तीति वाजसनेयकम्॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०