यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ ।
वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥
यत् । त्वा॒ । दे॒व॒ । प्र॒ऽपिब॑न्ति । ततः॑ । आ । प्या॒य॒से॒ । पुन॒रिति॑ ।
वा॒युः । सोम॑स्य । र॒क्षि॒ता । समा॑नाम् । मासः॑ । आऽकृ॑तिः ॥
हे देव सोम यद्यदा त्वा त्वां प्रतिबन्त्योषधिरूपम् त्रिष्वपि सवनेषु ततोऽनन्तरमेव पुनरा प्यायसे। आ प्यायस्व सम् । ऋ. १-९१-१६। इति प्रातः सवने सं ते पयांसि। ऋ. १-९१-१८। इत्युत्तरयोः सवनयोराप्यायसे। किञ्च वायुस्तव सोमस्य रक्षिता। यथा न शुष्यति तथा। वायुः शोषकः प्रसिद्धो लोके। किञ्च मासः। परिमीयत इति मासः सोमः। स च समानां सम्वत्सराणामाकृतिराकर्ता व्यवच्छेदको भवति। संवत्सरे संवत्सरे वसन्तादिकालेष्टनुष्ठीयमानत्वाद्वसन्ते वसन्ते ज्योतिषा यजेतेति श्रुतेः। यद्वा। सोमधारवनस्पतिविकारग्रहद्वारेण वयुह् सोमरसस्य रक्षिता भवति। वायुगोपा वनस्पतय इति श्रुतेः। एवं वल्ली रूपसोमपक्षे योजना। चन्द्रपकॆहे तु हे देव सोम यद्यदा त्वा त्वां प्रपिबन्ति रश्मयोऽपरपक्षे ततोऽनन्तरमेव पूर्वपक्षे पुनराप्यायसे। वायुष्च सोमस्य तव रक्षिता। वाय्वधीनत्वाच्छन्द्रगतेः। किञ्च समानां संवत्सराणां मासः। षष्ठ्यॆकवचनमेतत्। मासस्याकृतिश्च कर्ता त्वं चासि। एकैककलाक्षयसंवृद्धिभ्यां हि मासः पूर्यते तैः सम्वत्सर इति॥५॥