मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ६

संहिता

रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।
सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ॥

पदपाठः

रैभी॑ । आ॒सी॒त् । अ॒नु॒ऽदेयी॑ । ना॒रा॒शं॒सी । नि॒ऽओच॑नी ।
सू॒र्यायाः॑ । भ॒द्रम् । इत् । वासः॑ । गाथ॑या । ए॒ति॒ । परि॑ऽकृतम् ॥

सायणभाष्यम्

अभिः सूर्या स्वविवाहमस्तौदित्युक्तम्। सूर्या सावित्री ब्रूते। रैभी। रैभ्यः काश्चनर्चः। रैभीः शंसति रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकमायुन्नित्यादिब्राह्मणविहिता रैभ्यः। ऐ. ब्रा. ६-३२। सा रैभ्यनुदेय्यासीत्। दीयमानवधूविनोदनायानुदीयमाना वयस्यासीत्। तथा नाराशंसी। प्राता रत्नम् । ऋ. १-१२५-१। इत्यादिका मनुष्याणां स्तुतयो नाराशंस्यः। सा नाराशंसी न्योचनी। उचतिः सेवकर्मा। सा वधूशुश्रूषार्थं दीयमान दास्यभवत्। सूर्याय मम भद्रं वासो विचित्रं दुकूलादिकमाच्छादनयोग्यं वस्त्रं गाथया परिष्कृतमलङ्कृतमेति। गाथा गीयत इत्यादिब्राह्मणोक्ता गाथा। तया गाथया यत्परिष्कृतमस्ति तद्वासोऽभवदिति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१