मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ९

संहिता

सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा ।
सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ॥

पदपाठः

सोमः॑ । व॒धू॒ऽयुः । अ॒भ॒व॒त् । अ॒श्विना॑ । आ॒स्ता॒म् । उ॒भा । व॒रा ।
सू॒र्याम् । यत् । पत्ये॑ । शंस॑न्तीम् । मन॑सा । स॒वि॒ता । अद॑दात् ॥

सायणभाष्यम्

सोमो वधूयुर्वधूकामो वरोऽभवत्। तस्मिन्समयेऽश्विनाश्विनावुभोधौ वरा वरावास्ताम्। अभुताम्। यद्यदा सूर्यां पत्ये शंसन्तीं पतिं कामयमानाम् । पर्याप्तयौवनामित्यर्थः। सूर्यां मनसा सहिताय सोमाय वराय सविता तत्पिताददात् प्रादात् दित्सां चकार॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१