मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ११

संहिता

ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः ।
श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराचा॒रः ॥

पदपाठः

ऋ॒क्ऽसा॒माभ्या॑म् । अ॒भिऽहि॑तौ । गावौ॑ । ते॒ । सा॒म॒नौ । इ॒तः॒ ।
श्रोत्र॑म् । ते॒ । च॒क्रे इति॑ । आ॒स्ता॒म् । दि॒वि । पन्थाः॑ । च॒रा॒च॒रः ॥

सायणभाष्यम्

हे सूर्ये देवि ते तवर्क्सामाभ्यामभिधानीस्थानाभ्यामभिहितौ गावौ गोस्थानीयौ सूर्याचन्द्रमसौ सामनौ समानौ सन्तावितः। गच्छतः। आनोवाहौ पत्युर्गृहं प्रति गच्छतः। ते तव श्रोत्रम्। श्रोते इत्यर्थः। वरस्य गुणग्राहिणी श्रोत्रे एव चक्रे अस्ताम्। मनोरूपस्य रथस्य श्रोत्रे चक्रे अभवतामित्यर्थः। दिवि पन्थाश्चराचरश्चलाचलोऽथन्तन्तं गमनसाधनभुतो मार्गोऽभुत्। रथसञ्चारप्रदेशो द्युलोक आसीत्॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२