मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् १३

संहिता

सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् ।
अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्यो॒ः पर्यु॑ह्यते ॥

पदपाठः

सू॒र्यायाः॑ । व॒ह॒तुः । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् ।
अ॒घासु॑ । ह॒न्य॒न्ते॒ । गावः॑ । अर्जु॑न्योः । परि॑ । उ॒ह्य॒ते॒ ॥

सायणभाष्यम्

सोमाय प्रदित्सितायाः सूर्याय वहतुः। कन्याप्रियार्थं दातव्यो गवादिपदार्थो वहतुः। अ च प्रागात्। तस्या अपि पूर्वमगच्छत्। यं वहतुं सवितास्याः पितावासृजत् अवसृष्टवान्। प्रादादित्यर्थः। कदा सागच्छत् कदा वहतुरित्युभयोः काल उच्यते। अघासु। मघास्वित्यर्थः। मघानक्षत्रेषु गावः सवित्रा दत्ता गावः सोमगृहं प्रति हन्यन्ते। दण्डैस्ताड्यन्ते प्रेरणार्थम्। अर्जुन्योः। फल्गुन्योरित्यर्थः। तयोर्नक्षत्रयोः सवितुः सकाशात् परिसोमगृहं प्रत्युह्यते। नीयते रथेन॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२