यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्याया॑ः ।
विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥
यत् । अ॒श्वि॒ना॒ । पृ॒च्छमा॑नौ । अया॑तम् । त्रि॒ऽच॒क्रेण॑ । व॒ह॒तुम् । सू॒र्यायाः॑ ।
विश्वे॑ । दे॒वाः । अनु॑ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्रः । पि॒तरौ॑ । अ॒वृ॒णी॒त॒ । पू॒षा ॥
हे अश्विनाश्विनौ यद्यदा पृच्छमानौ सवितारं प्रष्टुमयातम् आगच्छतम्। केन साधनेनायातं तदुच्यते। त्रिचक्रेण चक्रत्र ययुक्तेन रथेन। किं पृच्छमानौ। सूर्याय वहतुम्। विवाहमित्यर्थः। तत्तदानीं वां युवां सवितारं प्रति गच्छन्तौ विश्वे सर्वे देवा अन्वजानन्। अनुज्ञातवन्तः। तथा पितरौ पुत्रोऽश्विनोः पुत्रः पूषावृणीत। वृतवान्॥१४॥