मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् १५

संहिता

यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ ।
क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥

पदपाठः

यत् । अया॑तम् । शु॒भः॒ । प॒ती॒ इति॑ । व॒रे॒ऽयम् । सू॒र्याम् । उप॑ ।
क्व॑ । एक॑म् । च॒क्रम् । वा॒म् । आ॒सी॒त् । क्व॑ । दे॒ष्ट्राय॑ । त॒स्थ॒थुः॒ ॥

सायणभाष्यम्

हे शुभस्पती उदकस्य स्वामिनौ यद्यावयातं आगच्छतम्। कं प्रति। वरेयं वरनीयायाः सूर्यायाः सम्बन्धिनं वरैर्याचितव्यं वा। सवितारमित्यर्थः। किमर्थम् । सूर्यामुप गन्तुम्। वां भवतोः सम्प्रति दृश्यमानमिदमेकं चक्रं क्वासीत्पुरा। क्व वां युवां देष्ट्राय दानाय प्रवृत्तौ तस्थथुरित्यश्विनोर्निवासं पृच्छति॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२