मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् १६

संहिता

द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।
अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥

पदपाठः

द्वे इति॑ । ते॒ । च॒क्रे इति॑ । सू॒र्ये॒ । ब्र॒ह्माणः॑ । ऋ॒तु॒ऽथा । वि॒दुः॒ ।
अथ॑ । एक॑म् । च॒क्रम् । यत् । गुहा॑ । तत् । अ॒द्धा॒तयः॑ । इत् । वि॒दुः॒ ॥

सायणभाष्यम्

अथ स्वयमेव स्मात्मानं प्रति सूर्या वदति। हे सूर्ये ते तव द्वे चक्रे प्रज्ञाते पुरा दृष्टे द्वे एव चन्द्रसूर्यात्मके ऋतुथर्तुषु विनिर्दिष्टे चक्रे ब्रह्माणो ब्राह्मणा विदुः। अथैकं चक्रं तृतीयं संवत्सरात्मकं गुहा गुहायां निहितं यदस्ति तदद्थातय इत्। एतन्मेधाविनामसु पठितम्। मेधाविन एव विदुः। चानन्ति॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३