मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् १७

संहिता

सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च ।
ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नमः॑ ॥

पदपाठः

सू॒र्यायै॑ । दे॒वेभ्यः॑ । मि॒त्राय॑ । वरु॑णाय । च॒ ।
ये । भू॒तस्य॑ । प्रऽचे॑तसः । इ॒दम् । तेभ्यः॑ । अ॒क॒र॒म् । नमः॑ ॥

सायणभाष्यम्

सूर्यायै सूर्यस्य पत्न्यै देवेभ्योऽग्न्यादिभ्यो मित्राय वरुणाय च ये च भुतस्य भूतजातस्य प्रचेतसः सुमतयोऽभिमतप्रदा भवन्ति तेभ्यः सर्वेभ्य इदं नमो नमस्कारमकरम्। करोमि॥१७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३