मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् २१

संहिता

उदी॒र्ष्वात॒ः पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे ।
अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥

पदपाठः

उत् । ई॒र्ष्व॒ । अतः॑ । पति॑ऽवती । हि । ए॒षा । वि॒श्वऽव॑सुम् । नम॑सा । गीः॒ऽभिः । ई॒ळे॒ ।
अ॒न्याम् । इ॒च्छ॒ । पि॒तृ॒ऽसद॑म् । विऽअ॑क्ताम् । सः । ते॒ । भा॒गः । ज॒नुषा॑ । तस्य॑ । वि॒द्धि॒ ॥

सायणभाष्यम्

अभिर्नृणां विवाहः स्तूयते। हे विश्वावसो अतः स्थानत्कन्यासमीपादुदीर्ष्व। उत्तिष्थ। एषा कन्या पतिवती हि सञ्जाता। अत उदीष्वेति वातः शब्दो योज्यः। विश्वावसुमेतन्नामानं गन्धर्वं नमसा नमस्कारेण गीर्भिः स्तुतिभिश्चेळे। स्तौ मि। तर्ह्येनां विहाय कां स्वीकरोमीति यदि ब्रूषे तर्ह्यन्यां पितृषदं पितृकुले स्थितां व्यक्तामनूढेति परिस्फुटां विगतांजनां वा। स्तनोद्गमादिराहित्येनाप्रौढामित्यर्थः। स तादृशः पदार्थस्ते तव भागः कल्पितः। तस्य तं भागं विद्धि जानीहि जनुषा जन्मना। लभस्वेत्यर्थः॥२१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४