मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् २५

संहिता

प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् ।
यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥

पदपाठः

प्र । इ॒तः । मु॒ञ्चामि॑ । न । अ॒मुतः॑ । सु॒ऽब॒द्धाम् । अ॒मुतः॑ । क॒र॒म् ।
यथा॑ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्रा । सु॒ऽभगा॑ । अस॑ति ॥

सायणभाष्यम्

इतः पितृकुलात्प्रमुञ्चामि त्वां नामुतो भर्तृगृहात्प्रमुञ्चामि। अमुतो भर्तृगृहे सुबद्धां करम्। यथेयं कन्या हे इन्द्र मीढ्वः सेक्तः सुपुत्रा सुभगा सुष्ठु भाग्या वासति भवति तथा कुरु॥२५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४