मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् २७

संहिता

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥

पदपाठः

इ॒ह । प्रि॒यम् । प्र॒ऽजया॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् । अ॒स्मिन् । गृ॒हे । गार्ह॑ऽपत्याय । जा॒गृ॒हि॒ ।
ए॒ना । पत्या॑ । त॒न्व॑म् । सम् । सृ॒ज॒स्व॒ । अध॑ । जिव्री॒ इति॑ । वि॒दथ॑म् । आ । व॒दा॒थः॒ ॥

सायणभाष्यम्

इह प्रियमित्येषा वध्वा गृहप्रवेशनी। सूत्रितं च। इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत्। आ. गृ. १-८-८। इति॥

हे वधु ते तवेहास्मिन्पतिकुले प्रियं प्रजया सह समृध्यताम्। अस्मिन्गृहे गार्हपत्याय गृहपतित्वाय जागृहि। बुध्यस्व्व। एनानेन पत्या सह तन्वं स्वीयं शरीरं सं सृजस्व। संसृष्टाभव। अधाथ जिव्री जीर्णौ जायापती युवां विधथं गृहमा वदाथः। आभिमुख्येन वदतम्॥२७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५