मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् २८

संहिता

नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते ।
एध॑न्ते अस्या ज्ञा॒तय॒ः पति॑र्ब॒न्धेषु॑ बध्यते ॥

पदपाठः

नी॒ल॒ऽलो॒हि॒तम् । भ॒व॒ति॒ । कृ॒त्या । आ॒स॒क्तिः । वि । अ॒ज्य॒ते॒ ।
एध॑न्ते । अ॒स्याः॒ । ज्ञा॒तयः॑ । पतिः॑ । ब॒न्धेषु॑ । ब॒ध्य॒ते॒ ॥

सायणभाष्यम्

कृत्याभिचाराभिमानिनी देवता नीललोहितं भवन्ति। नीलं च लोहितं च तस्या रूपं भवतीत्यर्थः। सा कृत्यासक्तिरासक्तास्यां सम्बद्धा व्यज्यते। त्यज्यत इत्यर्थः। तस्या कृत्यायामपगतायामस्या वध्वा ज्ञातय एधन्ते वर्धन्ते। पतिर्बन्धेषु सांसारिकेषु बध्यते॥२८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५