मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३१

संहिता

ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ ।
पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ॥

पदपाठः

ये । व॒ध्वः॑ । च॒न्द्रम् । व॒ह॒तुम् । यक्ष्माः॑ । यन्ति॑ । जना॑त् । अनु॑ ।
पुन॒रिति॑ । तान् । य॒ज्ञियाः॑ । दे॒वाः । नय॑न्तु । यतः॑ । आऽग॑ताः ॥

सायणभाष्यम्

वध्वश्चन्द्रं हिरण्यरूपं वहतुं ये यक्ष्मा व्याधयोऽनु यन्ति प्राप्नुवन्ति जनादस्मद्विरोधिनः सकाशात्। यद्वा। जनाद्यमाख्यात्। तान्पुनर्नयन्तु प्रापयन्तु यज्ञिया यज्ञार्हा देवा इन्द्रादयः। यत आगता यस्मात्ते यक्ष्मा आगताः तत्र तान्नयन्तु॥३१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६