मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३२

संहिता

मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती ।
सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ॥

पदपाठः

मा । वि॒द॒न् । प॒रि॒ऽप॒न्थिनः॑ । ये । आ॒ऽसीद॑न्ति॒ । दम्प॑ती॒ इति॒ दम्ऽप॑ती ।
सु॒ऽगेभिः॑ । दुः॒ऽगम् । अति॑ । इ॒ता॒म् । अप॑ । द्रा॒न्तु॒ । अरा॑तयः ॥

सायणभाष्यम्

वध्वाः प्रयाणे मा विदन्नित्येषा याज्या। सुत्रितं च। कल्याणेषु देशवृक्षचतुष्पथेषु मा विदन्परिपन्थिन इति जपेत्। आ. गृ. १-८-६। इति॥

परिपन्थिनः पर्यवस्थातारः शत्रवो मा विदन् मा प्रापयन् ये परिपन्थिनो दम्पती आसीदन्ति अभिगच्छन्ति। सुगेभिः सुगैर्मार्गैर्दुर्गं दुःखेन गन्तुं शक्यं दुर्गमं देशमतीताम्। अतिगच्छताम्। आरातयोऽदातारः शत्रवोऽपद्रान्तु। अपगच्छन्तु॥३२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६