मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३३

संहिता

सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त ।
सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥

पदपाठः

सु॒ऽम॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्ऽएत॑ । पश्य॑त ।
सौभा॑ग्यम् । अ॒स्यै॒ । द॒त्त्वाय॑ । अथ॑ । अस्त॑म् । वि । परा॑ । इ॒त॒न॒ ॥

सायणभाष्यम्

इयं वधूः सुमङ्गलीः शोभनमङ्गला। अत इमां सर्व अशीः कर्तारः समेत। सङ्गच्छत। तां पश्यत च। तां सङ्गताश्च दृष्ट्वास्या ऊढायै सौभाग्यं दत्त्वाय दत्त्वाथास्तम्। गृहनामैतत्। स्वस्वसम्बन्धिनं वि परेतन। विविधं परागच्छत॥३३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६