मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३४

संहिता

तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥

पदपाठः

तृ॒ष्टम् । ए॒तत् । कटु॑कम् । ए॒तत् । अ॒पा॒ष्ठऽव॑त् । वि॒षऽव॑त् । न । ए॒तत् । अत्त॑वे ।
सू॒र्याम् । यः । ब्र॒ह्मा । वि॒द्यात् । सः । इत् । वाधू॑ऽयम् । अ॒र्ह॒ति॒ ॥

सायणभाष्यम्

अनयापि वधूवस्त्रपरित्यागः प्रतिपाद्यते। एतद्वस्त्रं तृष्टं दाहजनकम्। तथैतत्कटुकम्। तथापाष्ठवत्। अपाष्ठमपस्थितमृजीषम्। तद्वत्। तथा विषवत्। नैतद्वस्त्रमत्तवे। अत्तव्यम्। अनुपयोग्यम्। यो ब्रह्मा ब्राह्मणः सूर्यामिदानीं प्रस्तुतां देवीं विद्यात् सम्यग्जानीयात् स इत्स एव वाधूयं वधूवस्त्रमर्हति॥३४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६