मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३५

संहिता

आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् ।
सू॒र्याया॑ः पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥

पदपाठः

आ॒ऽशस॑नम् । वि॒ऽशस॑नम् । अथो॒ इति॑ । अ॒धि॒ऽवि॒कर्त॑नम् ।
सू॒र्यायाः॑ । प॒श्य॒ । रू॒पाणि॑ । तानि॑ । ब्र॒ह्मा । तु । शु॒न्ध॒ति॒ ॥

सायणभाष्यम्

आशसनं तूषाधानम्। तच्चान्यवर्णं भवति। विशसनं शिरसि निधीयमानम्। तादृशं दशान्ते निधीयमानमधिविकर्तनं यत्त्रिधा वासो विकृन्तन्ति। तान्याशसनादीनि वासांस्यवस्थितानि सूर्याया रूपाणि भवन्ति। तानि पश्य। एवं भुतान्याशसनादीनि पुरा सूर्यास्वशरीरे स्थितान्यमङ्गलानि वासांसि विधत्ते। तानि रूपाणि सूर्याविद्ब्राह्मण एव तस्माद्वाससः सकाशाच्छुन्दति। अपनयति॥३५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६