मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३६

संहिता

गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥

पदपाठः

गृ॒भ्णामि॑ । ते॒ । सौ॒भ॒ग॒ऽत्वाय॑ । हस्त॑म् । मया॑ । पत्या॑ । ज॒रत्ऽअ॑ष्टिः । यथा॑ । असः॑ ।
भगः॑ । अ॒र्य॒मा । स॒वि॒ता । पुर॑म्ऽधिः । मह्य॑म् । त्वा॒ । अ॒दुः॒ । गार्ह॑ऽपत्याय । दे॒वाः ॥

सायणभाष्यम्

विवाहे कन्या हस्तग्रहणे गृभ्णामीत्येषा। सुत्रितं च। गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयात्। आ. गृ. १-७-३। इति॥

हे वधु ते तव हस्तमहं गृभ्णामि। गृह्णामि। किमर्थम्। सौभगत्वाय सौभाग्याय। मया पत्या त्वं यथा जरदष्टिः प्राप्तवार्धक्यासः भवसि। भगोऽर्यमा सविता पुरन्धिः पूषा एते देवास्त्वा त्वां मह्यवदुः। दत्तवन्तः। किमर्थं गार्हपत्याय। यथाहं गृहपतिः स्यामिति॥३६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७