तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्त॑ः प्र॒हरा॑म॒ शेप॑म् ॥
ताम् । पू॒ष॒न् । शि॒वऽत॑माम् । आ । ई॒र॒य॒स्व॒ । यस्या॑म् । बीज॑म् । म॒नु॒ष्याः॑ । वप॑न्ति ।
या । नः॒ । ऊ॒रू इति॑ । उ॒श॒ती । वि॒ऽश्रया॑ते । यस्या॑म् । उ॒शन्तः॑ । प्र॒ऽहरा॑म । शेप॑म् ॥
हे पूषन्पोषकैतन्नामक देव शिवतमामत्यन्तमङ्गलभुतां तामेरयस्व। आ ईरय। सर्वतः प्रेरय। यस्यामूरौ बीजं रेतोलक्षणं मनुष्या वपन्ति आदधते। या नोऽस्माकमूरू उषती कामयमाना विश्रयाते। यस्या मूरावुशन्तः कामयमाना वयं शेपं स्पर्शनयोग्यं पुंस्प्र जननं प्रहराम। उरौ व्यञ्जनसम्बन्धं करवामेत्यर्थः॥३७॥