मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३८

संहिता

तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुन॒ः पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥

पदपाठः

तुभ्य॑म् । अग्रे॑ । परि॑ । अ॒व॒ह॒न् । सू॒र्याम् । व॒ह॒तुना॑ । स॒ह ।
पुन॒रिति॑ । पति॑ऽभ्यः । जा॒याम् । दाः । अ॒ग्ने॒ । प्र॒ऽजया॑ । स॒ह ॥

सायणभाष्यम्

गन्धर्वा हे अग्ने तुभ्यमग्रे पर्यवहन्। प्रायच्छन्नित्यर्थः। काम् । सूर्याम् । केन सह। वहतुना सह। त्वं च तां सूर्यां वहतुना सह सोमाय प्रायच्छः। तद्वदिदानीमपि हे अग्ने पुनः पतिभ्योऽस्मभ्यं जायां प्रजया सह दाः। देहि॥३८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७