मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ३९

संहिता

पुन॒ः पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।
दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ॥

पदपाठः

पुन॒रिति॑ । पत्नी॑म् । अ॒ग्निः । अ॒दा॒त् । आयु॑षा । स॒ह । वर्च॑सा ।
दी॒र्घऽआ॑युः । अ॒स्याः॒ । यः । पतिः॑ । जीवा॑ति । श॒रदः॑ । श॒तम् ॥

सायणभाष्यम्

पुनः स्वगृहीतां पत्नीमग्निरायुषा सह वर्चसा सहादात्। प्रायच्छत्। अस्या अग्निदत्ताया यः पतिः पुमान् स दीर्घायुः सञ्शरदः शतं शतसंवत्सरं जीवाति। जीवतु॥३९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७