मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ४०

संहिता

सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥

पदपाठः

सोमः॑ । प्र॒थ॒मः । वि॒वि॒दे॒ । ग॒न्ध॒र्वः । वि॒वि॒दे॒ । उत्ऽत॑रः ।
तृ॒तीयः॑ । अ॒ग्निः । ते॒ । पतिः॑ । तु॒रीयः॑ । ते॒ । म॒नु॒ष्य॒ऽजाः ॥

सायणभाष्यम्

जातां कन्यां सोमः प्रथमभावी सन् विविदे। लब्धवान्। गन्धर्व उत्तरः सन् विविदे। लब्धवान्। अग्निस्तृतीयः पतिस्ते तव। पश्चान्मनुष्यजाः पतिस्तुरीयश्चतुर्थः॥४०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७