मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ४२

संहिता

इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् ।
क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥

पदपाठः

इ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒त॒म् ।
क्रीळ॑न्तौ । पु॒त्रैः । नप्तृ॑ऽभिः । मोद॑मानौ । स्वे । गृ॒हे ॥

सायणभाष्यम्

इहैव स्तम्। इहैवास्मिंल्लोके स्तम्। भवतम्। मा वि यौष्टम्। मा पृथग्भुतम्। विश्वमायुर्व्यश्नुतम्। प्राप्नुतम्। किञ्च पुत्रैर्नप्तृभिः पौत्रैः सह स्वे गृहे मोदमानौ भवतमिति शेषः॥४२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८