मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ४३

संहिता

आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।
अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

पदपाठः

आ । नः॒ । प्र॒ऽजाम् । ज॒न॒य॒तु॒ । प्र॒जाऽप॑तिः । आ॒ऽज॒र॒साय॑ । सम् । अ॒न॒क्तु॒ । अ॒र्य॒मा ।
अदुः॑ऽमङ्गलीः । प॒ति॒ऽलो॒कम् । आ । वि॒श॒ । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

सायणभाष्यम्

गृहप्रवेश आ नः प्रजां जनयत्वित्यद्याश्चतस्रो होमार्थाः। सूत्रितं च। आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा। आ. गृ. १-८-९। इति॥

प्रजापतिर्देवो नोऽस्माकं प्रजामा जनयतु। अर्यमा चाजरसाय जरापर्यन्तं जीवानाय समनक्तु। सङ्गमयतु। सा। त्वमदुर्मङ्गलीर्दुमङ्गल रहिता सुमङ्गली। यद्वा। या मङ्गलाचारान्दूषयति सा दुर्मङ्गली। ततोऽन्यादुर्मङ्गली। तादृशी सति पतिलोकं पतिसमीपमा विश। प्राप्नुहि। नोऽस्माकं द्विपदे शं भव। तथा च शं चतुष्पदे भव॥४३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८