मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ४४

संहिता

अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्य॑ः सु॒मना॑ः सु॒वर्चा॑ः ।
वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

पदपाठः

अघो॑रऽचक्षुः । अप॑तिऽघ्नी । ए॒धि॒ । शि॒वा । प॒शुऽभ्यः॑ । सु॒ऽमनाः॑ । सु॒ऽवर्चाः॑ ।
वी॒र॒ऽसूः । दे॒वऽका॑मा । स्यो॒ना । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

सायणभाष्यम्

हे वधु त्वमघोरचक्षुः क्रोधादभयङ्करचक्षुरेधि। भव। तथापतिघ्नी भव। तथा पशुभ्यः शिवा हितकरी भव। सुमनाः सुवर्चाश्च भव। वीरसूः पुत्राणामेव प्रसवित्री देवकामा स्योना सुखकरा च भव॥४४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८