मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ४५

संहिता

इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु ।
दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥

पदपाठः

इ॒माम् । त्वम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्राम् । सु॒ऽभगा॑म् । कृ॒णु॒ ।
दश॑ । अ॒स्या॒म् । पु॒त्रान् । आ । धे॒हि॒ । पति॑म् । ए॒का॒द॒शम् । कृ॒धि॒ ॥

सायणभाष्यम्

हे इन्द्र त्वमिमां वधूं सुपुत्रां सुभगां च कृणु। कृधि। अस्यां वध्वां दश पुत्राना धेहि। पतिमेकादशं कृधि। दश पुत्राः पतिरेकादशो यथा स्यात्तथा कृधि। कृणु॥४५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८